योगनये धर्मादित्रयपरिणामविचारः

Authors

  • ङा.अशोक कुमार मीणा Author

DOI:

https://doi.org/10.8855/fnzez508

Abstract

  योगसाधनेन प्राप्यसिद्धीनां विचारप्रसङ्गे धारणाध्यानसमाधिविशिष्ट- संयमस्य विषयसिद्ध्यर्थं क्रमशः निरोध-समाधिः एकाग्रतारूपपरिणामत्रयाणां वर्णनं दृश्यते। तेषु निरोधादिपरिणामानां परिणमनकालविषये मतद्वयं समुपलभ्यते।

          तत्र प्रथमपक्षे वाचस्पतिमिश्रः[1] रामानन्दयति[2] नारायणतीर्थः[3] सदाशिवेन्द्रसरस्वती[4]  हरिहरानन्दारण्यकम्[5]। बलदेवामिश्रा[6]  द्याचार्याणाम- न्तर्भावः। एतेषां मते सम्प्रज्ञातसमाधेः प्रारम्भिकावस्थायां चित्तस्य समाधिपरिणामः सुहृदावस्थायां चित्तस्यैकाग्रतापरिणामः असंप्रज्ञातसमाध्यवस्थायञ्च चित्तस्य निरोधपरिणामः जायते।

 

[1]. क. असम्प्रज्ञातं समाधिमपेक्षस्य सम्प्रज्ञातो व्युत्थानम्, निरुद्धनेऽनेनेति निरोधः  - ज्ञानप्रसादः परं वैराग्यम्....इति। त.वै.,पृ. 290।ख)सम्प्रज्ञातसमाधिपरिणामावस्थां चित्तस्य दर्शयति, इति । तत्र , पृ. 291।ग) ततः पुनः समाधेः पूर्वापरीभूताया अवस्थाया निष्पत्तौ... इति ।  तत्र, पृ. 292।

[2]. क)परवैराग्यरूपवृत्त्याः..सन्निर्बीजनिरोधपरिणाम, इति। म.प्र., पृ. – 53।ख) एवं निर्बीजावस्थामुक्त्वा सम्प्रज्ञातपरिणाममाह,  इति। तत्रैव। तत्र यदा व्युत्थानाऽभिभवोः ...चित्तं भवति, इति। सू. बो., पृ.36।

[3]. तत्र यदा व्युत्थानाभिभवो... चित्तं भवति, इति । सू.बो.,पृ. 36

[4]. क)सोऽयमीदृश्यश्चित्तस्य निरोधपरिणामो निर्बीजः समाधिर्भवति, इति । यो. सू.पृ. 59। ख) इत्थं निरोधपरिणामरूपं निर्बीजसमाधिमभिधाय सम्प्रज्ञातसमाधिपरिणाममभिधातुमाह, इति। तत्र, पृ. 60।

[5]. क) निरोधचित्तम् , प्रत्ययशून्यंचित्तम्, इति। भा. , पृ. 289।ख) सर्वार्थताहीनसमाधिस्वभावेन....समाधिपरिणाम, इति । .तत्र , पृ. 292।ग) ततः – तदा समाधिकाले पुनरन्यो यः परिणामस्तल्लक्षणमाह, इति। तत्रैव।

[6]. चित्तस्य सम्प्रज्ञातसमाधिपरिणामावस्थां दर्शयति। इति । यो.सू.,पृ. 58

Downloads

Published

2013-2024

Issue

Section

Articles