वाक्यपदीयब्रह्मकाण्डोपक्रमरूपः शब्दतत्त्वविचार:
DOI:
https://doi.org/10.8855/wm5ca667Abstract
अथासंदिग्धे विषये विचार: प्रवर्तितुं नार्हति, संदिग्धो न्यायः प्रवर्तत इति न्यायात् । न जातु कश्चित् सचेता भगवति सहस्ररश्मिमालिनि अम्बरतलावलम्बिनि पुरत: प्रकाशमानं घटपटादिकं विषयजातं स्फुटमाकलयन् जिज्ञासते किमिदमिति । एवमेव प्रयोजनरहितेऽपि विषये न कश्चिदनुयुङ्क्ते किमिदमिति । यथा करटस्य दन्ता भवन्ति न वा ? तस्मात् संदिग्धो सप्रयोजने च वस्तुनि विचारारम्भ इति सर्ववादिसिद्ध: सिद्वान्तः ।
Downloads
Published
2013-2024
Issue
Section
Articles