प्राङ्नव्यविहितमत्वर्थविधायकसूत्रसर्वेक्षणम्
DOI:
https://doi.org/10.8855/by4t2v11Abstract
पाणिनीय - व्याकरणविश्लेषणस्य मार्गद्वयं प्रसिद्धम्, नव्यो मार्गः, प्राचीनमार्गश्च प्राचीने लक्षणानुसारिणि विश्लेषणे प्रवृत्तानां काशिकाकारादीनामभिधानं सादरं स्मर्यतेऽपरतो नव्येषु दीक्षितनागेशादीनाम्। मत्वर्थप्रत्ययानुशासनविधावपि प्रवृत्तयोरुीायोरपि समीक्षाप्रकारस्तन्यते। लक्षणानुसारिव्याख्याकृत्सु काशिकावृत्तिकारो यथाक्रमं प्राप्तस्य मत्वर्थप्रत्ययस्य सूत्राणि भाष्यानुगुण्येन व्याचख्यौ। यथा भाष्ये ‘‘तदस्यास्त्यस्मिन्निति सूत्रस्य अस्य अस्मिन्निति उभयार्थप्रयोजनं विवृत्तम्। तत्र प्रदीपकारो भाष्योक्तं विवृण्वन्‘‘ शाखावान् वृक्ष इत्युदाहरणं प्रदश्र्य आधारसम्बन्धयोरेकत्रान्वयञ् सूचयन् अन्यतरोपादानस्य प्रयोजनं ब्रूते। इह यदा सम्बन्धः सर्वकारकपूर्वको, नाधारपूर्वक एव। यथा देवदत्तस्य गाव इति क्रयप्रतिग्रहादिक्रियाविषयककर्तृत्वपूर्वकः स्वस्वामिसम्बन्धस्तदा सप्तम्युपादाने कारकान्तरपूर्व-सम्बन्धाग्रहणाद् अस्येति षष्ठ्यर्थोऽप्युपादानीयः। तथा षष्ठ्यर्थमार्गनिर्देशे यत्राधिकरणं शेषसम्बन्धनिमित्तसम्बन्धत्वेनअविवक्षितम्। वृक्षा अस्मिन् पर्वते सन्तीति तत्र प्रत्ययो न स्यात्। न ह्यत्र कारकपूर्वकः शेषसम्बन्धो दृश्यते वृक्षैः पर्वतस्य अनारम्भात्। नावयवावय-विभावः, आनन्तर्यादिसम्बन्धसम्भवेऽपि तत्र मत्वर्थीयैर्न भाव्यम् तस्मादुभयोपादानम्। कैयटेन कारकप्रकरणे गौणमुख्यन्यायस्य अनाश्रयणमुक्त्वा गौणाधारस्यापि अधिकरणसंज्ञात्वम् परामृश्य अत्र व्याख्याने तत्सम्बन्धो विहितः। तद्यथा सप्तम्युपादानेऽपि गोमान् देवदत्त इति सिध्यत्येव। नैतदस्तिशक्तिमात्रनिर्देशे मुख्य एवाधिकरणे मत्वर्थीयाः स्युः, वृक्षवान् पर्वत इत्यादौ न तु गौणे गोमान् देवदत्त इत्यादौ। कारकप्रकरणे हि ‘‘साधकतमं करणम् इति तमप् ग्रहणसामथ्र्यात् गौणमुख्यन्यायस्यानाश्रयेण‘‘ अयन्तु प्रत्ययविधिरिति स्यान्नयायाश्रयणमिति षष्ठीनिर्देशोऽपि कृतः।
Downloads
Published
2013-2025
Issue
Section
Articles
