भूमाद्यर्थानुशीलनम्

Authors

  • डाॅ. अशोक कुमार झा Author

DOI:

https://doi.org/10.8855/1shpre94

Abstract

  यद्यपि व्यापकदृष्ट्या समीक्षणेन अस्य अस्मिन्निति गम्यम् अधिकरणसम्बन्ध-रूपमर्थमुन्नयन्ति मतुबर्थप्रत्ययाः, तथा प्रत्यययोगात् अर्थोपलब्धेः। तथापि, सूत्रकारेणैव एतदर्थद्वयातिरिक्ता अपि संज्ञायाम् कामवति, बलवति, उदधौ सौराज्ये, देशे, उन्नते, आहतप्रशंसयोः, जातौ ब्रह्मचारिणि चैतेषु अर्थेषु अपि प्रत्यययोगात् लभ्या भावाः प्रोक्ताः। वार्तिककारेण च कल्याणे, अङ्गविवृद्धौ, असहने, समूहे, असन्निहिते। एतदतिरिच्यापि भाष्यकारेण भूमादयः षडर्थाः स्ववार्तिकरूपेण इति पदसामथ्र्येन कथिताः। यद्यपि एते भूमादयः प्रत्ययार्थ इति न शक्यते वक्तुं तावता तादृशार्थाप्रतीतेः। अतः प्रकृतिप्रत्ययसमुदितस्यैव एतेऽर्थास्तत्र तत्र यथास्थलं बोध्यन्ते।

 

Downloads

Published

2013-2025

Issue

Section

Articles